नमोस्तु वर्द्धमानाय सूत्र
|| नमोस्तु वर्द्धमानाय सूत्र ||
नमोस्तु वर्द्धमानाय,
स्पर्द्धमानाय कर्मणा.
तज्जया-वाप्त-मोक्षाय,
परोक्षाय कुतीर्थिनाम्. .1.
येषां विकचा-रविन्द-राज्या,
ज्यायः क्रम-कमलावलिं दधत्या.
सदृशैरिति संगतं प्रशस्यं,
कथितं सन्तु शिवाय ते जिनेन्द्राः. .2.
कषाय-तापा-र्दित-जन्तु-निर्वृतिं,
करोति यो जैन-मुखाम्बुदोद्-गतः.
स शुक्र-मासोद्भव-वृष्टि-सन्निभो,
दधातु तुष्टिं मयि विस्तरो गिराम्. .3.