सकलार्हत्-स्तोत्र

सकलार्हत्-स्तोत्र

।। सकलार्हत्-स्तोत्र ।।

सकलाऽऽर्हत् – प्रतिष्ठान~मधिष्ठानं शिव – श्रियः ।
भूर् – भुव :-स्वस् – त्रयीशान~मार्हन्त्यं प्रणिदध्महे        ।।१।।

नामाऽऽकृति-द्रव्य-भावैः, पुनतस्-त्रि-जगज्-जनम् ।
क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे                         ।।२।।

आदिमं पृथिवी-नाथ-मादिमं निष्परिग्रहम् ।
आदिमं तीर्थ-नाथं च, ऋषभ-स्वामिनं स्तुमः                   ।।३।।

अर्हन्त-मजितं विश्व-कमलाकर-भास्करम् ।
अम्लान-केवलादर्श-सङ्क्रान्त-जगतं स्तुवे ।।४।।

विश्व-भव्य-जनाराम-कुल्या-तुल्या जयन्ति ताः ।
देशना-समये वाच:, श्री-संभव-जगत्पतेः ।।५।।

अनेकान्त-मताम्भोधि-समुल्लासन-चन्द्रमाः ।
दद्या-दमन्द-मानन्दं, भगवानभिनन्दन: ।।६।।

द्युसत्-किरीट-शाणाग्रो-त्तेजिताङ्म्रि-नखावलिः ।
भगवान् सुमति-स्वामी, तनोत्वभिमतानि वः ।।७।।

पद्मप्रभ-प्रभोर्-देह-भास: पुष्णन्तु वः श्रियम् |
अन्तरङ्गारि-मथने, कोपाटोपादि-वारुणाः ।।८।।

श्री-सुपार्श्व-जिनेन्द्राय, महेन्द्र-महिताङ्घ्रये |
नमश्चतुर्-वर्ण-सङ्घ-गगनाभोग-भास्वते ।।९।।

चन्द्रप्रभ-प्रभोश्चन्द्र-मरीचि-निचयोज्ज्वला ।
मूर्तिर्-मूर्त-सित-ध्यान-निर्मितेव श्रियेऽस्तु वः ।।१०।।

करामलक-वद्-विश्वं, कलयन् केवल-श्रिया ।
अचिन्त्य-माहात्म्य-निधिः, सुविधिर्-बोधयेऽस्तु वः ।।११।।

सत्त्वानां परमानन्द- कन्दोदभेद-नवाम्बुदः ।
स्याद्वादामृत-निःस्यन्दी, शीतलः पातु वो जिनः ।।१२।।

भवरोगाऽऽर्त्त-जन्तूना मगदङ्कार-दर्शन: ।
निःश्रेयस-श्री-रमण:, श्रेयांस: श्रेयसेऽस्तु वः ।।१३।।

विश्वोपकारकी-भूत-तीर्थकृत्-कर्म-निर्मितिः ।
सुरासुरनरैः पूज्यो, वासुपूज्य: पुनातु वः ।।१४।।

विमल-स्वामिनो वाचा, कतक-क्षोद-सोदराः ।
जयन्ति त्रि-जगच्-चेतो-जल-नर्मल्य-हेतवः ।।१५।।

स्वयंभूरमण-स्पर्द्धि-करुणा-रस-वारिणा ।
अनन्त-जिदनन्तां वः, प्रयच्छतु सुखश्रियम् ।।१६।।

कल्प-द्रम-सधर्माण-मिष्टप्राप्तौ शरीरिणाम् ।
चतुर्धा-धर्म-देष्टारं, धर्मनाथ-मुपास्महे ।।१७।।

सुधा-सोदर-वाग्-ज्योत्स्ना-निर्मली-कृत-दिङ्-मुखः |
मृग-लक्ष्मा तमः-शान्त्यै, शान्ति-नाथ-जिनोऽस्तु वः ।।१८।।

श्री-कुन्थु-नाथो भगवान्, सनाथोऽतिशरयाद्धिभि: ।
सुरासुर-नृ-नाथाना-मेकनाथोऽस्तु वः श्रिये ।।१९।।

अरनाथस्तु भगवाँ-श्चतुर्थार-नभो-रविः ।
चतुर्थ-पुरुषार्थ-श्री-विलासं वितनोतु वः ।।२०।।

सुरासुर-नराधीश-मयूर-नव-वारिदम् ।
कर्म-द्रून्मूलने हस्ति-मल्लं मल्लि-मभिष्टुमः ।।२१।।

जगन्-महा-मोह-निद्रा-प्रत्यूष-समयोपमम् ।
मुनिसुव्रत-नाथस्य, देशना-वचनं स्तुमः ।।२२।।

लुठन्तो नमतां मूर्ध्नि, निर्मलीकार-कारणम् |
वारिप्लवा इव नमेः, पान्तु पाद-नखांशव: ।।२३।।

यदु-वंश-समुद्रेन्दुः, कर्म-कक्ष-हुताशन: |
अरिष्ट-नेमिर्-भगवान्, भूयाद्वोऽरिष्ट-नाशन: ।।२४।।

कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति ।
प्रभुस्-तुल्य-मनो-वृत्तिः, पार्श्वनाथ: श्रियेऽस्तु वः ।।२५।।

श्रीमते वीर-नाथाय, सनाथायाद्~भुत-श्रिया ।
महानन्द-सरो-राज-मरालाया~र्ह​ते नमः  ।।२६।।

कृतापराधेऽपि जने, कृपा-मन्थर-तारयोः ।
ईषद्-बाष्पार्-द्रयोर्-भद्रं, श्री-वीर-जिन-नेत्रयोः ।।२७।।

जयति विजितान्य-तेजाः, सुरासुराधीश-सेवित: श्रीमान् ।
विमलस्-त्रास-विरहितस्-त्रिभुवन-चूडामणिर्-भगवान् ।।२८।।

वीरः सर्व-सुरासुरेन्द्र-महितो, वीरं बुधाः संश्रिताः
वीरेणाभिहतः स्व-कर्म-निचयो, वीराय नित्यं नमः ।
वीरात्-तीर्थ~मिदं प्रवृत्त~मतुलं, वीरस्य घोरं तपो
वीरे श्री-धृति-कीर्ति-कान्ति-निचयः, श्री-वीर ! भद्रं दिश  ।।२९।।

अवनि-तल-गतानां कृत्रिमा~कृत्रिमानां
वर-भवन-गतानां दिव्य-वैमानिकानाम् ।
इह मनुज-कृतानां, देवराजार्~चितानां;
जिन-वर-भवनानां, भावतोऽहं नमामि ।।३०।।

सर्वेषां वेधसामाद्य~मादिमं परमेष्ठिनाम् ।
देवाधिदेवं सर्वज्ञं, श्री-वीरं प्रणिदध्महे ।।३१।।

देवोऽनेक-भवार्जितोर्जित- महा- पाप-प्रदीपानलो;
देवः सिद्धि-वधू-विशाल-हृदया~लङ्कार-हारोपमः ।
देवोऽष्टादश-दोष-सिन्धुर-घटा-निर्भेद-पञ्चाननो;
भव्यानां विदधातु वाञ्छित-फलं श्री-वीतरागो जिन: ।।३२।।

ख्यातोऽष्टापद-पर्वतो गज-पदः सम्मेत-शैलाभिधः
श्रीमान् रैवतक: प्रसिद्ध-महिमा शत्रुञ्जयो मण्डपः ।
वैभारः कनकाचलोर्~बुद-गिरिः श्री-चित्रकूटादय~
स्तत्र श्री-ऋषभादयो जिनवरा: कुर्वन्तु वो मङ्गलम् ।।३३।।

Leave a Reply

Your email address will not be published. Required fields are marked *