स्नातस्या स्तुति
।। स्नातस्या स्तुति ।।
स्नातस्या~प्रतिमस्य मेरु-शिखरे शच्या विभो: शैशवे;
रूपा~लोकन-विस्मया~ह्रत -रस-भ्रांत्या भ्रमच्-चक्षुषा ।
उन्-मृष्टं नयन-प्रभा-धवलितं क्षिरोदका~शंकया;
वक्त्रं यस्य पुनः पुनः स जयति श्री-वर्द्धमानो जिन: ।। १ ।।
हंसांसाहत-पद्म-रेणु-कपिश-क्षीरार्ण~वाम्भो-भृतैः ;
कुम्भै~रप्सरसां पयोधर-भर-प्रस्पर्द्धिभिः काञ्चनैः ।
येषां मन्दर – रत्न – शैल – शिखरे जन्माभिषेकः कृतः ;
सर्वे: सर्व – सुरा – सुरेश्वर – गणे ~ स्तेषां नतोऽहं क्रमान् ।।२ ।।
अर्हद्-वक्त्र-प्रसूतं गणधर-रचितं , द्वादशाङ्गं विशालं ;
चित्रं बह्वर्थ – युक्तं मुनि-गण-वृषभैर – धारितं बुद्धिमद्भिः ।
मोक्षाग्र-द्वार-भूतं व्रत-चरण-फलं ज्ञेय-भाव-प्रदीपं ;
भक्त्या नित्यं प्रपद्ये श्रुत ~ मह ~ मखिलं सर्व – लोकैक – सारम् ।।३ ।।
निष्पङ्क – व्योम – नील – द्युति ~ मलस – दृृशं बाल-चन्द्राभ-दंष्ट्र ;
मत्तं घण्टारवेण प्रसृत-मद-जलं पूरयन्तं समन्तात् ।
आरूढो दिव्य-नागं विचरति गगने कामदः काम-रूपी ,
यक्षः सर्वानुभूतिर्-दिशतु मम सदा सर्व कार्येषु सिद्धिम् ।।४ ।।